|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.293. अध्यायः 293
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन स्वस्यानुपमदुःखानुभवितृत्वबुद्ध्या शोचतोयुधिष्ठिरस्य रामोपाख्यानकथनपूर्वकं हेतूपन्यासेन शोकापनोदनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-293-0x(2727)(27225)
एवमेतन्महाबाहो रामेणामिततेजसा।
प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा ॥ 3-293-1(27226)
मा शुचः परुषव्याघ्र क्षत्रियोसि परंतप।
बाहुवीर्याश्रयेमार्गे वर्तसे दीप्तनिर्णये ॥ 3-293-2(27227)
न हि ते वृजिनं किंचिद्दृश्यते परमण्वपि।
अस्मिन्मार्गे निपीदेयुः सेन्द्रा अपि सुरासुराः ॥ 3-293-3(27228)
संहत्य निहतोवृत्रो मरुद्भिर्वज्रपाणिना।
नमुचिश्चैवदुर्धर्षो दीर्गजिह्वा चराक्षसी ॥ 3-293-4(27229)
सहायवति सर्वार्थाः सतिष्ठन्तीह सर्वशः।
किंनु तस्याजितं सङ्ख्ये यस् भ्राता धनंजयः ॥ 3-293-5(27230)
अयं च बलिनांश्रेष्ठो भीमो भीमपराक्रमाः।
युवानौ च महेष्वासौ वीरौ माद्रवतीसुतौ ॥ 3-293-6(27231)
एभिः सहायैः कस्मात्त्वं विषीदसि परंतप।
य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम् ॥ 3-293-7(27232)
त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः।
विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ ॥ 3-293-8(27233)
इतश्च त्वमिमां पश्यसैन्धवेन दुरात्मना।
बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः ॥ 3-293-9(27234)
आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम्।
जयद्रथं च राजानं विजितं वशमागतम् ॥ 3-293-10(27235)
असहायेन रामेण वैदेही पुनराहृता।
हत्वासङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम् ॥ 3-293-11(27236)
यस् शाखामृगामित्राण्यृक्षाः कालमुखास्तथा।
जात्यन्तरगता राजन्नेतद्बुद्ध्याऽनुचिन्तय ॥ 3-293-12(27237)
तस्मात्सर्वं कुरुश्रेष्ठ मा शुचो भरतर्षभ।
त्वद्विधा हि महात्मानो न शोचन्ति परंतप ॥ 3-293-13(27238)
वैशम्पायन उवाच। 3-293-14x(2728)
एवमाश्वासितो राजामार्कण्डेयेन धीमता।
त्यक्त्वा दुःखमदीनात्मा पुनरप्येनमब्रवीत् ॥ 3-293-14(27239)
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपपर्वणि त्रिनवत्यधिकद्विशततमोऽध्यायः ॥ 294 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-293-2 दीप्तनिर्णये असंदिग्धे प्रत्यक्षफले ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|